|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.41. अध्यायः 041
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
ब्रह्मणा देवान्प्रति गरुडस्य बदरीनारायणानुगमनादिप्रतिपादकगरुडमुनिगणसंवादानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`सुपर्ण उवाच।
सोऽहमामन्त्र्य पितरं तद्भावगतमानसः।
स्वमेवालयमासाद्य तमेवार्थमचिन्तयम्॥ 13-41-1(82485)
तद्भावगतभावात्मा तद्भूतगतमानसः।
गोविन्दं चिन्तयन्नासे शाश्वतं परमव्ययम्॥ 13-41-2(82486)
धृतं बभूव हृदयं नारायणदिदृक्षया।
सोहं वेगं समास्थाय मनोमारुतवेगवान्।
रम्यां विशालां बदरीं गतो नारायणाश्रमम्॥ 13-41-3(82487)
ततस्तत्र हरिं जगतः प्रभवं विभुम्।
गोविन्दं पुण्डरीकाक्षं प्रणतः शिरसा हरिम्।
ऋग्यजुस्सामभिश्चैनं तुष्टाव परया मुदा॥ 13-41-4(82488)
अथापश्यं सुविपुलमश्वत्थं देवसंश्रयम्॥ 13-41-5(82489)
चतुर्द्विगुणपीनांसः शङ्कचक्रगदाधरः।
प्रादुर्बभूव पुरुषः पीतवासाः सनातनः।
मध्याह्नार्कप्रतीकाशस्तेजसा भासयन्दिशः॥ 13-41-6(82490)
संस्तुतः संविदं कृत्वा व्रजेति श्रेयसे रतः।
प्रागुदीचीं दिशं देवः प्रतस्थे पुरुषोत्तमः।
दिशश्च विदिशश्चैव भासयन्स्वेन तेजसा॥ 13-41-7(82491)
तमहं पुरुषं दिव्यं व्रजन्तममितौजसम्।
अनुवव्राज वेगेन शनैर्गच्छन्तमव्ययम्॥ 13-41-8(82492)
योजनानां सहस्राणि षष्टिमष्टौ तथा शतम्।
तथा शतसहस्रं च शतं द्विगुणमेव च॥ 13-41-9(82493)
स गत्वा दीर्गमध्वानमपश्यमहमद्भुतम्।
महान्तं पावकं दीप्तमर्चिष्मन्तमनिन्धनम्॥ 13-41-10(82494)
शतयोजनविस्तीर्णं तस्माद्द्विगुणमायतम्।
विवेश स महायोगी पावकं पावकद्युतिः॥ 13-41-11(82495)
तत्र शंभुस्तपस्तेपे महादेवः सहोमया।
स तेन संविदं कृत्वा पावकं समतिक्रमत्॥ 13-41-12(82496)
श्रमाभिभूतेन मया कथञ्चिदनुगम्यते॥ 13-41-13(82497)
गत्वा स दीर्घमध्वानं भास्करेणावभासितम्।
अभास्करममर्यादं विवेश सुमहत्तमः॥ 13-41-14(82498)
अथ दृष्टिः प्रतिहता मम तत्र बभूव ह।
यथास्वभावं भूतात्मा विवेश स महाद्युतिः॥ 13-41-15(82499)
ततोऽहमभवं मूढो जडान्धबधिरोपमः।
दिशश्च विदिशश्चैव न विजज्ञे तमोवृतः॥ 13-41-16(82500)
अविजानन्नहं किञ्चित्तस्मिंस्तमसि संवृते।
ससंभ्रान्तेन मनसा व्यथां परमिकां गतः॥ 13-41-17(82501)
सोऽहं प्रपन्नः शरणं देवदेवं सनातनम्।
प्राञ्चलिर्मनसा भूत्वा वाक्यमेतत्तदोक्तवान्॥ 13-41-18(82502)
भगवन्भूतभव्येश भवद्भूतकृदव्यय।
शरणं सम्प्रपन्नं मां त्रातुमर्हस्यरिंदम॥ 13-41-19(82503)
अहं तु तत्त्वजिज्ञासुः कोसि कस्यासि कुत्र वा।
सम्प्राप्तः पदवीं देव स मां संत्रातुमर्हसि॥ 13-41-20(82504)
आविर्भूतः पुराणात्मा मामेहीति सनातनः।
ततोपरान्ततो देवो विश्वस्य गतिरात्मवान्।
मोहयामास मां तत्र दुर्विभाव्यवपुर्विभुः॥ 13-41-21(82505)
स्वभावमात्मनस्तत्र दर्शयन्स्वयमात्मना।
श्रमं मे जनयामास भयं चाभयदः प्रभुः॥ 13-41-22(82506)
खिन्न इत्येव मां मत्वा भगवानव्ययोऽच्युतः।
शब्देनाश्वासयामास जगाहे च तमो महत्॥ 13-41-23(82507)
अहं तमेवानुगतः श्रमालसपदश्चरन्।
मनसा देवदेवेशं ध्यातुं समुपचक्रमे॥ 13-41-24(82508)
तथागतं तु मां ज्ञात्वा भगवानमितद्युतिः।
तमः प्रणाशयामास ममानुग्रहकाङ्क्षया॥ 13-41-25(82509)
ततः प्रनष्टे तमसि तमहं दीप्ततेजसम्।
अपश्यं तेजसा व्याप्तं मध्याह्न इव भास्करम्॥ 13-41-26(82510)
स्वयंप्रभांश्च पुरुषान्स्त्रियश्च परमाद्भुताः।
अपश्यमहमव्यग्रस्तस्मिन्देशे सहस्रशः॥ 13-41-27(82511)
न तत्र द्योतते सूर्यो नक्षत्राणि तथैव च।
न तत्र चन्द्रमा भाति न वायुर्वाति पांसुलः॥ 13-41-28(82512)
तत्र तूर्याण्यनेकानि गीतानि मधुराणि च।
अदृश्यानि मनोज्ञानि श्रूयन्ते सर्वतोदिशम्॥ 13-41-29(82513)
स्रवन्ति वैडूर्यलताः पद्मोत्पलझषाकुलाः।
मुक्तासिकतवप्राश्च सरितो निर्मलोदकाः॥ 13-41-30(82514)
अगतिस्तत्र देवानामसुराणां तथैव च।
गन्धर्वनागयक्षाणां राक्षसानां तथैव च॥ 13-41-31(82515)
स्वयंप्रभास्तत्र नरा दृश्यन्तेऽद्भुतदर्शनाः।
येषां न देवतास्तुल्याः प्रभाभिर्भावितात्मनाम्॥ 13-41-32(82516)
स च तानप्यतिक्रम्य दैवतैरपि पूजितः।
विवेश ज्वलनं दीप्तमनिन्धनमनौपमम्॥ 13-41-33(82517)
ज्वालाभिर्मां प्रविष्टं च ज्वलन्तं सर्वतोदिशम्।
दैत्यदानवरक्षोभिर्दैवतैश्चापि दुस्सहम्॥ 13-41-34(82518)
ज्वालामालिनमासाद्य तमग्निमहमव्ययम्।
अविषह्यतमं मत्वा मनसेदमचिन्तयम्॥ 13-41-35(82519)
मया हि समरेष्वग्निरनेकेषु महाद्युतिः।
प्रविष्टश्चापविद्धश्च न च मां दग्धवान्क्वचित्॥ 13-41-36(82520)
अयं च दुस्सहः शश्वत्तेजसाऽतिहुताशनः।
अत्यादित्यप्रकाशार्चिरनलो दीप्यते महान्॥ 13-41-37(82521)
स तथा दह्यमानोपि तेजसा दीप्तवर्चसा।
प्रपन्नः शरणं देवं शङ्कचक्रगदाधरम्॥ 13-41-38(82522)
भक्तश्चानुगतश्चेति त्रातुमर्हसि मां विभो।
यथा मां न दहेदग्निः सद्यो देव तथा कुरु॥ 13-41-39(82523)
एवं विलपमानस्य ज्ञात्वा मे वचनं प्रभुः।
मा भैरिति वचः प्राह मेघगम्बीरनिस्वनः॥ 13-41-40(82524)
स मामाश्वास्य वचनं प्राहेदं भगवान्विभुः।
मम त्वं विदितः सौम्य यथावत्तत्वदर्शने॥ 13-41-41(82525)
ज्ञापितश्चापि यत्पित्रा तच्चापि विदितं महत्।
वैनतेय ममाप्येवमहं वेद्यः कथञ्चन॥ 13-41-42(82526)
महदेतत्स्वरूपं मे न ते वेद्यं कथञ्चन।
मां हि विन्दन्ति विद्वांसो ये ज्ञाने परिनिष्ठिताः॥
निर्ममा निरहङ्कारा निराशीर्बन्धनायुताः॥ 13-41-43(82527)
भवांस्तु सततं भक्तो मन्मनाः पक्षिसत्तम।
स्थूलंमां वेत्स्यसे तस्माज्जगतः कारणेस्थितम्'॥ ॥ 13-41-44(82528)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकचत्वारिंशोऽध्यायः॥ 41 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|